Sukta 3.37
अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो । इन्द्र कृण्वन्तु वाघतः ॥
अ॒र्वा॒चीनं॒ सु ते॒ मन॑ उ॒त चक्षु॑: शतक्रतो । इन्द्र॑ कृ॒ण्वन्तु॑ वा॒घत॑: ॥
arvācī́naṃ su te mánā utá cákṣuḥ śatakrato | índra kṛṇvántu vā́ghataḥ ||
O Indra of a hundred powers, may the seekers shape for thee an inward-turning mind and a luminous vision—so that thy force may work in us as the awakened sacrificial energy.
अ॒र्वा॒चीन॑म् । सु । ते॒ । मनः॑ । उ॒त । चक्षुः॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । इन्द्र॑ । कृ॒ण्वन्तु॑ । वा॒घतः॑ ॥अर्वाचीनम् । सु । ते । मनः । उत । चक्षुः । शतक्रतो इति शतक्रतो । इन्द्र । कृण्वन्तु । वाघतः ॥arvācīnam | su | te | manaḥ | uta | cakṣuḥ | śatakrato itiśata-krato | indra | kṛṇvantu | vāghataḥ