Sukta 3.36
आ तू भर माकिरेतत्परि ष्ठाद्विद्मा हि त्वा वसुपतिं वसूनाम् । इन्द्र यत्ते माहिनं दत्रमस्त्यस्मभ्यं तद्धर्यश्व प्र यन्धि ॥
आ तू भ॑र॒ माकि॑रे॒तत्परि॑ ष्ठाद्वि॒द्मा हि त्वा॒ वसु॑पतिं॒ वसू॑नाम् । इन्द्र॒ यत्ते॒ माहि॑नं॒ दत्र॒मस्त्य॒स्मभ्यं॒ तद्ध॑र्यश्व॒ प्र य॑न्धि ॥
ā́ tū́ bhara mā́ki retát pári ṣṭhād vidmā́ hí tvā vasúpatim vasū́nām | índra yát te mā́hinaṃ dátram ásty asmábhyaṃ tád háryaśva prá yandhi ||
Bring it here; let none stand around to hinder this. For we know thee as the lord of riches. O Indra, whatever mighty gift is thine—O tawny-horsed—grant that to us forth.
आ । तु । भ॒र॒ । माकिः॑ । ए॒तत् । परि॑ । स्था॒त् । वि॒द्म । हि । त्वा॒ । वसु॑ऽपतिम् । वसू॑नाम् । इन्द्र॑ । यत् । ते॒ । माहि॑नम् । दत्र॑म् । अस्ति॑ । अ॒स्मभ्य॑म् । तत् । ह॒रि॒ऽअ॒श्व॒ । प्र । य॒न्धि॒ ॥आ । तु । भर । माकिः । एतत् । परि । स्थात् । विद्म । हि । त्वा । वसुपतिम् । वसूनाम् । इन्द्र । यत् । ते । माहिनम् । दत्रम् । अस्ति । अस्मभ्यम् । तत् । हरिअश्व । प्र । यन्धि ॥ā | tu | bhara | mākiḥ | etat | pari | sthāt | vidma | hi | tvā | vasu-patim | vasūnām | indra | yat | te | māhinam | datram | asti | asmabhyam | tat | hari-aśva | pra | yandh i