Sukta 3.36
ह्रदा इव कुक्षयः सोमधानाः समी विव्याच सवना पुरूणि । अन्ना यदिन्द्रः प्रथमा व्याश वृत्रं जघन्वाँ अवृणीत सोमम् ॥
ह्र॒दा इ॑व कु॒क्षय॑: सोम॒धाना॒: समी॑ विव्याच॒ सव॑ना पु॒रूणि॑ । अन्ना॒ यदिन्द्र॑: प्रथ॒मा व्याश॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑वृणीत॒ सोम॑म् ॥
hradā́ iva kukṣáyaḥ soma-dhā́nāḥ samī́ vivyāca sávānā purū́ṇi | ánnā yád índraḥ prathamā́ vyā́śa vṛtráṃ jaghanvā́m̐ avṛṇīta sómam ||
Like lakes, the wombs that hold Soma spread out together into many pressings. When Indra first opened the foods (the nourishings), having slain Vṛtra, he chose Soma for himself.
ह्र॒दाःऽइ॑व । कु॒क्षयः॑ । सो॒म॒ऽधानाः॑ । सम् । ई॒म् इति॑ । वि॒व्या॒च॒ । सव॑ना । पु॒रूणि॑ । अन्ना॑ । यत् । इन्द्रः॑ । प्र॒थ॒मा । वि । आश॑ । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒वृ॒णी॒त॒ । सोम॑म् ॥ह्रदाःइव । कुक्षयः । सोमधानाः । सम् । ईम् इति । विव्याच । सवना । पुरूणि । अन्ना । यत् । इन्द्रः । प्रथमा । वि । आश । वृत्रम् । जघन्वान् । अवृणीत । सोमम् ॥hradāḥ-iva | kukṣayaḥ | soma-dhānāḥ | sam | īm iti | vivyāca | savanā | purūṇi | annā | yat | indraḥ | prathamā | vi | āśa | vṛtram | jaghanvān | avṛṇīta | somam