Sukta 3.36
अस्मे प्र यन्धि मघवन्नृजीषिन्निन्द्र रायो विश्ववारस्य भूरेः । अस्मे शतं शरदो जीवसे धा अस्मे वीराञ्छश्वत इन्द्र शिप्रिन् ॥
अ॒स्मे प्र य॑न्धि मघवन्नृजीषि॒न्निन्द्र॑ रा॒यो वि॒श्ववा॑रस्य॒ भूरे॑: । अ॒स्मे श॒तं श॒रदो॑ जी॒वसे॑ धा अ॒स्मे वी॒राञ्छश्व॑त इन्द्र शिप्रिन् ॥
asmé prá yandhi maghavann ṛjīṣinn índra rāyó viśvá-vārasya bhū́reḥ | asmé śatáṃ śarádo jīváse dhā asmé vīrā́n śáśvata indra śiprin ||
To us grant forth, O bountiful Indra, O lord of the Soma-pressing, the abundant riches of all-desirable plenitude. In us set a hundred autumns for living; in us set heroes for ever, O Indra of the strong jaw.
अ॒स्मे इति॑ । प्र । य॒न्धि॒ । म॒घ॒ऽव॒न् । ऋ॒जी॒षि॒न् । इन्द्र॑ । रा॒यः । वि॒श्वऽवा॑रस्य । भूरेः॑ । अ॒स्मे इति॑ । श॒तम् । श॒रदः॑ । जी॒वसे॑ । धाः॒ । अ॒स्मे इति॑ । वी॒रान् । शश्व॑तः । इ॒न्द्र॒ । शि॒प्रि॒न् ॥अस्मे इति । प्र । यन्धि । मघवन् । ऋजीषिन् । इन्द्र । रायः । विश्ववारस्य । भूरेः । अस्मे इति । शतम् । शरदः । जीवसे । धाः । अस्मे इति । वीरान् । शश्वतः । इन्द्र । शिप्रिन् ॥asme iti | pra | yandhi | magha-van | ṛjīṣin | indra | rāyaḥ | viśva-vārasya | bhūreḥ | asme iti | śatam | śaradaḥ | jīvase | dhāḥ | asme iti | vīrān | śaśvataḥ | indra | śiprin