Sukta 3.36
समुद्रेण सिन्धवो यादमाना इन्द्राय सोमं सुषुतं भरन्तः । अंशुं दुहन्ति हस्तिनो भरित्रैर्मध्वः पुनन्ति धारया पवित्रैः ॥
स॒मु॒द्रेण॒ सिन्ध॑वो॒ याद॑माना॒ इन्द्रा॑य॒ सोमं॒ सुषु॑तं॒ भर॑न्तः । अं॒शुं दु॑हन्ति ह॒स्तिनो॑ भ॒रित्रै॒र्मध्व॑: पुनन्ति॒ धार॑या प॒वित्रै॑: ॥
samudréṇa síndhavo yā́damānā indrā́ya sómaṃ súṣutaṃ bhárantaḥ | aṃśúṃ duhanti hastíno bháritrair mádhvaḥ punanti dhā́rayā pavítraiḥ ||
The rivers, moving with the ocean’s vastness, bring for Indra the well-pressed Soma. They milk out the bright essence with their hands and vessels; they purify the honeyed delight in a stream through the sieves.
स॒मु॒द्रेण॑ । सिन्ध॑वः । याद॑मानाः । इन्द्रा॑य । सोम॑म् । सुषु॑तम् । भर॑न्तः । अं॒शुम् । दु॒ह॒न्ति॒ । ह॒स्तिनः॑ । भ॒रित्रैः॑ । मध्वः॑ । पु॒न॒न्ति॒ । धार॑या । प॒वित्रैः॑ ॥समुद्रेण । सिन्धवः । यादमानाः । इन्द्राय । सोमम् । सुषुतम् । भरन्तः । अंशुम् । दुहन्ति । हस्तिनः । भरित्रैः । मध्वः । पुनन्ति । धारया । पवित्रैः ॥samudreṇa | sindhavaḥ | yādamānāḥ | indrāya | somam | suṣutam | bharantaḥ | aṃśum | duhanti | hastinaḥ | bharitraiḥ | madhvaḥ | punanti | dhārayā | pavitraiḥ