Sukta 3.36
प्र यत्सिन्धवः प्रसवं यथायन्नापः समुद्रं रथ्येव जग्मुः । अतश्चिदिन्द्रः सदसो वरीयान्यदीं सोमः पृणति दुग्धो अंशुः ॥
प्र यत्सिन्ध॑वः प्रस॒वं यथाय॒न्नाप॑: समु॒द्रं र॒थ्ये॑व जग्मुः । अत॑श्चि॒दिन्द्र॒: सद॑सो॒ वरी॑या॒न्यदीं॒ सोम॑: पृ॒णति॑ दु॒ग्धो अं॒शुः ॥
prá yát síndhavaḥ pra-saváṃ yáthā́yan ā́paḥ samudráṃ rathyèva jagmúḥ | atáś cid índraḥ sádaso várīyān yád īṃ sómaḥ pṛṇáti dúgdhó aṃśúḥ ||
When the rivers go forth in their impelling flow, as waters travel to the ocean like chariots on a path—then even from that Indra becomes wider than the assembly, when Soma, the milked-out bright stalk, fills him.
प्र । यत् । सिन्ध॑वः । प्र॒ऽस॒वम् । यथा॑ । आय॑न् । आपः॑ । स॒मु॒द्रम् । र॒थ्या॑ऽइव । ज॒ग्मुः॒ । अतः॑ । चि॒त् । इन्द्रः॑ । सद॑सः । वरी॑यान् । यत् । ई॒म् । सोमः॑ । पृ॒णति॑ । दु॒ग्धः । अं॒शुः ॥प्र । यत् । सिन्धवः । प्रसवम् । यथा । आयन् । आपः । समुद्रम् । रथ्याइव । जग्मुः । अतः । चित् । इन्द्रः । सदसः । वरीयान् । यत् । ईम् । सोमः । पृणति । दुग्धः । अंशुः ॥pra | yat | sindhavaḥ | pra-savam | yathā | āyan | āpaḥ | samudram | rathyāiva | jagmuḥ | ataḥ | cit | indraḥ | sadasaḥ | varīyān | yat | īm | somaḥ | pṛṇati | dugdhaḥ | aṃśuḥ