Sukta 3.36
महाँ उग्रो वावृधे वीर्याय समाचक्रे वृषभः काव्येन । इन्द्रो भगो वाजदा अस्य गावः प्र जायन्ते दक्षिणा अस्य पूर्वीः ॥
म॒हाँ उ॒ग्रो वा॑वृधे वी॒र्या॑य स॒माच॑क्रे वृष॒भः काव्ये॑न । इन्द्रो॒ भगो॑ वाज॒दा अ॑स्य॒ गाव॒: प्र जा॑यन्ते॒ दक्षि॑णा अस्य पू॒र्वीः ॥
mahā́m ugró vāvṛdhe vīryā́ya samā́cakre vṛṣabháḥ kā́vyena | índro bhágo vāja-dā́ asya gā́vaḥ prá jāyante dákṣiṇā asya pūrvī́ḥ ||
Great and formidable, he has increased for hero-power; the Bull has made all ready by the seer-wisdom. Indra becomes Bhaga, the giver of plenitudes; his rays (cows) are born forth, and the many ancient Dakṣiṇās move toward manifestation.
म॒हान् । उ॒ग्रः । व॒वृ॒धे॒ । वी॒र्या॑य । स॒म्ऽआच॑क्रे । वृ॒ष॒भः । काव्ये॑न । इन्द्रः॑ । भगः॑ । वा॒ज॒ऽदाः । अ॒स्य॒ । गावः॑ । प्र । ज॒य॒न्ते॒ । दक्षि॑णाः । अ॒स्य॒ । पू॒र्वीः ॥महान् । उग्रः । ववृधे । वीर्याय । सम्आचक्रे । वृषभः । काव्येन । इन्द्रः । भगः । वाजदाः । अस्य । गावः । प्र । जयन्ते । दक्षिणाः । अस्य । पूर्वीः ॥mahān | ugraḥ | vavṛdhe | vīryāya | sam-ācakre | vṛṣabhaḥ | kāvyena | indraḥ | bhagaḥ | vāja-dāḥ | asya | gāvaḥ | pra | jayante | dakṣiṇāḥ | asya | pūrvīḥ