Sukta 3.36
महाँ अमत्रो वृजने विरप्श्युग्रं शवः पत्यते धृष्ण्वोजः । नाह विव्याच पृथिवी चनैनं यत्सोमासो हर्यश्वममन्दन् ॥
म॒हाँ अम॑त्रो वृ॒जने॑ विर॒प्श्यु१॒॑ग्रं शव॑: पत्यते धृ॒ष्ण्वोज॑: । नाह॑ विव्याच पृथि॒वी च॒नैनं॒ यत्सोमा॑सो॒ हर्य॑श्व॒मम॑न्दन् ॥
mahā́m ámatro vṛjáne vi-rápśy ùgráṃ śávaḥ patyate dhṛṣṇv-ójaḥ | nā́ha vivyāca pṛthivī́ canáinaṃ yát sómāso háryaśvam ámandan ||
Great, unmeasured, he widens in the field of action; his fierce might takes lordship, his daring force. Even Earth cannot encompass him when the Somās have gladdened the tawny-horsed One.
म॒हान् । अम॑त्रः । वृ॒जने॑ । वि॒ऽर॒प्शी । उ॒ग्रम् । शवः॑ । प॒त्य॒ते॒ । धृ॒ष्णु । ओजः॑ । न । अह॑ । वि॒व्या॒च॒ । पृ॒थि॒वी । च॒न । एन॑म् । यत् । सोमा॑सः । हरि॑ऽअश्वम् । अम॑न्दन् ॥महान् । अमत्रः । वृजने । विरप्शी । उग्रम् । शवः । पत्यते । धृष्णु । ओजः । न । अह । विव्याच । पृथिवी । चन । एनम् । यत् । सोमासः । हरिअश्वम् । अमन्दन् ॥mahān | amatraḥ | vṛjane | vi-rapśī | ugram | śavaḥ | patyate | dhṛṣṇu | ojaḥ | na | aha | vivyāca | pṛthivī | cana | enam | yat | somāsaḥ | hari-aśvam | amandan