Sukta 3.36
पिबा वर्धस्व तव घा सुतास इन्द्र सोमासः प्रथमा उतेमे । यथापिबः पूर्व्याँ इन्द्र सोमाँ एवा पाहि पन्यो अद्या नवीयान् ॥
पिबा॒ वर्ध॑स्व॒ तव॑ घा सु॒तास॒ इन्द्र॒ सोमा॑सः प्रथ॒मा उ॒तेमे । यथापि॑बः पू॒र्व्याँ इ॑न्द्र॒ सोमाँ॑ ए॒वा पा॑हि॒ पन्यो॑ अ॒द्या नवी॑यान् ॥
pibā́ vardhasva táva ghā sutā́sa índra sómāsaḥ prathamā́ utéme | yáthā́pibaḥ pūrvyā́m̐ indra sómām̐ evā́ pāhi pányo adyā́ navī́yān ||
Drink and grow in thy force; for thee, O Indra, these Soma-pressings are the first offerings. As thou didst drink the ancient Somās before, so drink even now, O adorable One, these ever-newer streams of delight.
पिब॑ । वर्ध॑स्व । तव॑ । घ॒ । सु॒तासः॑ । इन्द्र॑ । सोमा॑सः । प्र॒थ॒माः । उ॒त । इ॒मे । यथा॑ । अपि॑बः । पू॒र्व्यान् । इ॒न्द्र॒ । सोमा॑न् । ए॒व । पा॒हि॒ । पन्यः॑ । अ॒द्य । नवी॑यान् ॥पिब । वर्धस्व । तव । घ । सुतासः । इन्द्र । सोमासः । प्रथमाः । उत । इमे । यथा । अपिबः । पूर्व्यान् । इन्द्र । सोमान् । एव । पाहि । पन्यः । अद्य । नवीयान् ॥piba | vardhasva | tava | gha | sutāsaḥ | indra | somāsaḥ | prathamāḥ | uta | ime | yathā | apibaḥ | pūrvyān | indra | somān | eva | pāhi | panyaḥ | adya | navīyān