Sukta 3.36
इन्द्राय सोमाः प्रदिवो विदाना ऋभुर्येभिर्वृषपर्वा विहायाः । प्रयम्यमानान्प्रति षू गृभायेन्द्र पिब वृषधूतस्य वृष्णः ॥
इन्द्रा॑य॒ सोमा॑: प्र॒दिवो॒ विदा॑ना ऋ॒भुर्येभि॒र्वृष॑पर्वा॒ विहा॑याः । प्र॒य॒म्यमा॑ना॒न्प्रति॒ षू गृ॑भा॒येन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्ण॑: ॥
índrāya sómāḥ pra-dívo vídānā ṛbhúr yébhiḥ vṛ́ṣa-parvā ví-hāyāḥ | pra-yamyámānān práti ṣū́ gṛbhāyéndra píba vṛ́ṣa-dhūtasya vṛ́ṣṇaḥ ||
For Indra the Soma-streams, known from the far heaven, which the R̥bhu—strong-jointed—have sent forth. Grasp them now as they are being held out; drink, O Indra, of the bull-driven Soma, you the strong one.
इन्द्रा॑य । सोमाः॑ । प्र॒ऽदिवः॑ । विदा॑नाः । ऋ॒भुः । येभिः॑ । वृष॑ऽपर्वा । विऽहा॑याः । प्र॒ऽय॒म्यमा॑नान् । प्रति॑ । सु । गृ॒भा॒य॒ । इन्द्र॑ । पिब॑ । वृष॑ऽधूतस्य । वृष्णः॑ ॥इन्द्राय । सोमाः । प्रदिवः । विदानाः । ऋभुः । येभिः । वृषपर्वा । विहायाः । प्रयम्यमानान् । प्रति । सु । गृभाय । इन्द्र । पिब । वृषधूतस्य । वृष्णः ॥indrāya | somāḥ | pra-divaḥ | vidānāḥ | ṛbhuḥ | yebhiḥ | vṛṣa-parvā | vi-hāyāḥ | pra-yamyamānān | prati | su | gṛbhāya | indra | piba | vṛṣa-dhūtasya | vṛṣṇaḥ