Sukta 3.36
इमामू षु प्रभृतिं सातये धाः शश्वच्छश्वदूतिभिर्यादमानः । सुतेसुते वावृधे वर्धनेभिर्यः कर्मभिर्महद्भिः सुश्रुतो भूत् ॥
इ॒मामू॒ षु प्रभृ॑तिं सा॒तये॑ धा॒: शश्व॑च्छश्वदू॒तिभि॒र्याद॑मानः । सु॒तेसु॑ते वावृधे॒ वर्ध॑नेभि॒र्यः कर्म॑भिर्म॒हद्भि॒: सुश्रु॑तो॒ भूत् ॥
imā́m ū̀ ṣú prá-bhṛtiṁ sātáye dhāḥ śáśvac-chāśvad ūtí-bhir yā́damānaḥ | suté-sute vāvṛdhe várdhanebhir yáḥ kárma-bhir mahád-bhiḥ su-śrúto bhū́t ||
Set this offering-forth for the winning; moving ever and again with your helps. He grows at each pressing by the strengthenings—he who by great works has become well-heard-of (well-attested) in the worlds.
इमाम् । ऊँ॒ इति॑ । सु । प्रऽभृ॑तिम् । सा॒तये॑ । धाः॒ । शश्व॑त्ऽशश्वत् । ऊ॒तिऽभिः॑ । याद॑मानः । सु॒तेऽसु॑ते । व॒वृ॒धे॒ । वर्ध॑नेभिः । यः । कर्म॑ऽभिः । म॒हत्ऽभिः॑ । सुऽश्रु॑तः । भूत् ॥इमाम् । ऊँ इति । सु । प्रभृतिम् । सातये । धाः । शश्वत्शश्वत् । ऊतिभिः । यादमानः । सुतेसुते । ववृधे । वर्धनेभिः । यः । कर्मभिः । महत्भिः । सुश्रुतः । भूत् ॥imām | oṃ iti | su | pra-bhṛtim | sātaye | dhāḥ | śaśvat-śaśvat | ūti-bhiḥ | yādamānaḥ | sute--sute | vavṛdhe | vardhanebhiḥ | yaḥ | karma-bhiḥ | mahat-bhiḥ | su-śrutaḥ | bhūt