Sukta 3.35
याँ आभजो मरुत इन्द्र सोमे ये त्वामवर्धन्नभवन्गणस्ते । तेभिरेतं सजोषा वावशानोऽग्नेः पिब जिह्वया सोममिन्द्र ॥
याँ आभ॑जो म॒रुत॑ इन्द्र॒ सोमे॒ ये त्वामव॑र्ध॒न्नभ॑वन्ग॒णस्ते॑ । तेभि॑रे॒तं स॒जोषा॑ वावशा॒नो॒३॒॑ऽग्नेः पि॑ब जि॒ह्वया॒ सोम॑मिन्द्र ॥
yā́ṁ ā́bhajo marúta indra sóme yé tvām ávardhann ábhavan gaṇás te | tébhir etáṁ sa-jóṣā vāvaśānáḥ agnéḥ píba jihváyā sómam indra ||
Those Maruts whom you have shared with in the Soma, O Indra—who increased you and became your host—together with them, in one accord and eager, drink this Soma with Agni’s tongue, O Indra.
यान् । आ । अभ॑जः । म॒रुतः॑ । इ॒न्द्र॒ । सोमे॑ । ये । त्वाम् । अव॑र्धन् । अभ॑वन् । ग॒णः । ते॒ । तेभिः॑ । ए॒तम् । स॒ऽजोषाः॑ । वा॒व॒शा॒नः । अ॒ग्नेः । पि॒ब॒ । जि॒ह्वया॑ । सोम॑म् । इ॒न्द्र॒ ॥यान् । आ । अभजः । मरुतः । इन्द्र । सोमे । ये । त्वाम् । अवर्धन् । अभवन् । गणः । ते । तेभिः । एतम् । सजोषाः । वावशानः । अग्नेः । पिब । जिह्वया । सोमम् । इन्द्र ॥yān | ā | abhajaḥ | marutaḥ | indra | some | ye | tvām | avardhan | abhavan | gaṇaḥ | te | tebhiḥ | etam | sa-joṣāḥ | vāvaśānaḥ | agneḥ | piba | jihvayā | somam | indra