Sukta 3.35
इन्द्र पिब स्वधया चित्सुतस्याग्नेर्वा पाहि जिह्वया यजत्र । अध्वर्योर्वा प्रयतं शक्र हस्ताद्धोतुर्वा यज्ञं हविषो जुषस्व ॥
इन्द्र॒ पिब॑ स्व॒धया॑ चित्सु॒तस्या॒ग्नेर्वा॑ पाहि जि॒ह्वया॑ यजत्र । अ॒ध्व॒र्योर्वा॒ प्रय॑तं शक्र॒ हस्ता॒द्धोतु॑र्वा य॒ज्ञं ह॒विषो॑ जुषस्व ॥
índra píba svadháyā cit sutásyāgnér vā pāhi jihváyā yajatra | adhvaryór vā prá-yataṁ śakra hástād hótur vā yajñáṁ havíṣo juṣasva ||
O Indra, drink the pressed Soma by your own right power; or drink it with Agni’s tongue, O adorable. Or accept, O Shakra, what the Adhvaryu has set forth from his hand; or from the Hotṛ receive the sacrifice and enjoy the offering.
इन्द्र॑ । पिब॑ । स्व॒धया॑ । चि॒त् । सु॒तस्य॑ । अ॒ग्नेः । वा॒ । पा॒हि॒ । जि॒ह्वया॑ । य॒ज॒त्र॒ । अ॒ध्व॒र्योः । वा॒ । प्रऽय॑तम् । श॒क्र॒ । हस्ता॑त् । होतुः॑ । वा॒ । य॒ज्ञम् । ह॒विषः॑ । जु॒ष॒स्व॒ ॥इन्द्र । पिब । स्वधया । चित् । सुतस्य । अग्नेः । वा । पाहि । जिह्वया । यजत्र । अध्वर्योः । वा । प्रयतम् । शक्र । हस्तात् । होतुः । वा । यज्ञम् । हविषः । जुषस्व ॥indra | piba | svadhayā | cit | sutasya | agneḥ | vā | pāhi | jihvayā | yajatra | adhvaryoḥ | vā | pra-yatam | śakra | hastāt | hotuḥ | vā | yajñam | haviṣaḥ | juṣasva