Sukta 3.35
इमं नरः पर्वतास्तुभ्यमापः समिन्द्र गोभिर्मधुमन्तमक्रन् । तस्यागत्या सुमना ऋष्व पाहि प्रजानन्विद्वान्पथ्या अनु स्वाः ॥
इ॒मं नर॒: पर्व॑ता॒स्तुभ्य॒माप॒: समि॑न्द्र॒ गोभि॒र्मधु॑मन्तमक्रन् । तस्या॒गत्या॑ सु॒मना॑ ऋष्व पाहि प्रजा॒नन्वि॒द्वान्प॒थ्या॒३॒॑ अनु॒ स्वाः ॥
imáṁ nárāḥ párvatās túbhyam ā́paḥ sám indra góbhir mádhu-mantam akran | tásyā́gatya su-mánā ṛ́ṣva pāhi prajā́nann vidvā́n pathyā́ḥ ánu svā́ḥ ||
This (Soma) the strong ones, the mountains and the waters, have together made for you, O Indra, honeyed with the rays/cows. Coming to it with a glad mind, drink, O lofty one; knowing, follow the right paths that are your own.
इ॒मम् । नरः॑ । पर्व॑ताः । तुभ्य॑म् । आपः॑ । सम् । इ॒न्द्र॒ । गोभिः॑ । मधु॑ऽमन्तम् । अ॒क्र॒न् । तस्य॑ । आ॒ऽगत्य॑ । सु॒ऽमनाः॑ । ऋ॒ष्व॒ । पा॒हि॒ । प्र॒ऽजा॒नन् । वि॒द्वान् । प॒थ्याः॑ । अनु॑ । स्वाः ॥इमम् । नरः । पर्वताः । तुभ्यम् । आपः । सम् । इन्द्र । गोभिः । मधुमन्तम् । अक्रन् । तस्य । आगत्य । सुमनाः । ऋष्व । पाहि । प्रजानन् । विद्वान् । पथ्याः । अनु । स्वाः ॥imam | naraḥ | parvatāḥ | tubhyam | āpaḥ | sam | indra | gobhiḥ | madhu-mantam | akran | tasya | āgatya | su-manāḥ | ṛṣva | pāhi | pra-jānan | vidvān | pathyāḥ | anu | svāḥ