Sukta 3.35
स्तीर्णं ते बर्हिः सुत इन्द्र सोमः कृता धाना अत्तवे ते हरिभ्याम् । तदोकसे पुरुशाकाय वृष्णे मरुत्वते तुभ्यं राता हवींषि ॥
स्ती॒र्णं ते॑ ब॒र्हिः सु॒त इ॑न्द्र॒ सोम॑: कृ॒ता धा॒ना अत्त॑वे ते॒ हरि॑भ्याम् । तदो॑कसे पुरु॒शाका॑य॒ वृष्णे॑ म॒रुत्व॑ते॒ तुभ्यं॑ रा॒ता ह॒वींषि॑ ॥
stīrṇáṁ te barhíḥ sutá indra sómaḥ kṛtā́ dhā́nā áttave te hári-bhyām | tád-okase puru-śā́kāya vṛ́ṣṇe marútvate túbhyaṁ rātā́ havī́ṃṣi ||
For you the sacred spread is laid out; the Soma is pressed, O Indra; the grains are prepared for your two tawny powers to partake. To you, dwelling in that home of consciousness, O strong one of many powers, joined with the Maruts, these offerings are given.
स्ती॒र्णम् । ते॒ । ब॒र्हिः । सु॒तः । इ॒न्द्र॒ । सोमः॑ । कृ॒ताः । धा॒नाः । अत्त॑वे । ते॒ । हरि॑ऽभ्याम् । तत्ऽओ॑कसे । पु॒रु॒ऽशाका॑य । वृष्णे॑ । म॒रुत्व॑ते । तुभ्य॑म् । रा॒ता । ह॒वींषि॑ ॥स्तीर्णम् । ते । बर्हिः । सुतः । इन्द्र । सोमः । कृताः । धानाः । अत्तवे । ते । हरिभ्याम् । तत्ओकसे । पुरुशाकाय । वृष्णे । मरुत्वते । तुभ्यम् । राता । हवींषि ॥stīrṇam | te | barhiḥ | sutaḥ | indra | somaḥ | kṛtāḥ | dhānāḥ | attave | te | hari-bhyām | tat-okase | puru-śākāya | vṛṣṇe | marutvate | tubhyam | rātā | havīṃṣi