Sukta 3.35
तवायं सोमस्त्वमेह्यर्वाङ्छश्वत्तमं सुमना अस्य पाहि । अस्मिन्यज्ञे बर्हिष्या निषद्या दधिष्वेमं जठर इन्दुमिन्द्र ॥
तवा॒यं सोम॒स्त्वमेह्य॒र्वाङ्छ॑श्वत्त॒मं सु॒मना॑ अ॒स्य पा॑हि । अ॒स्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्या॑ दधि॒ष्वेमं ज॒ठर॒ इन्दु॑मिन्द्र ॥
távāyaṁ sómas tvám ehy arvā́ṅ śaśvat-tamáṁ su-mánā asyá pāhi | asmín yajñé barhíṣy ā́ ni-sádyā dadhiṣvémáṁ jaṭháre índum indra ||
This Soma is yours; come here towards us, ever and again, with a glad mind, and drink of it. In this sacrifice, taking your seat on the sacred seat of offering, place this drop of light (indu) within your belly, O Indra.
तव॑ । अ॒यम् । सोमः॑ । त्वम् । आ । इ॒हि॒ । अ॒र्वाङ् । श॒श्व॒त्ऽत॒मम् । सु॒ऽमनाः॑ । अ॒स्य । पा॒हि॒ । अ॒स्मिन् । य॒ज्ञे । ब॒र्हिषि । आ । नि॒ऽसद्य॑ । द॒धि॒ष्व । इ॒मम् । ज॒ठरे॑ । इन्दु॑म् । इ॒न्द्र॒ ॥तव । अयम् । सोमः । त्वम् । आ । इहि । अर्वाङ् । शश्वत्तमम् । सुमनाः । अस्य । पाहि । अस्मिन् । यज्ञे । बर्हिषि । आ । निसद्य । दधिष्व । इमम् । जठरे । इन्दुम् । इन्द्र ॥tava | ayam | somaḥ | tvam | ā | ihi | arvāṅ | śaśvat-tamam | su-manāḥ | asya | pāhi | asmin | yajñe | barhiṣi | ā | ni-sadya | dadhiṣva | imam | jaṭhare | indum | indra