Sukta 3.35
मा ते हरी वृषणा वीतपृष्ठा नि रीरमन्यजमानासो अन्ये । अत्यायाहि शश्वतो वयं तेऽरं सुतेभिः कृणवाम सोमैः ॥
मा ते॒ हरी॒ वृष॑णा वी॒तपृ॑ष्ठा॒ नि री॑रम॒न्यज॑मानासो अ॒न्ये । अ॒त्याया॑हि॒ शश्व॑तो व॒यं तेऽरं॑ सु॒तेभि॑: कृणवाम॒ सोमै॑: ॥
mā́ te hárī vṛ́ṣaṇā vīta-pṛ́ṣṭhā ní rīraman anyá-yajamānāso anyé | aty-ā́yāhi śáśvato vayáṁ te 'ráṁ sutébhiḥ kṛṇavāma sómaiḥ ||
Let not other sacrificers detain your two mighty tawny ones, broad-backed in their going. Overpass them and come continually to us; for you we make ready the right plenty with the pressed Soma-delights.
मा । ते॒ । हरी॒ इति॑ । वृष॑णा । वी॒तऽपृ॑ष्ठा । नि । री॒र॒म॒न् । यज॑मानासः । अ॒न्ये । अ॒ति॒ऽआया॑हि । शश्व॑तः । व॒यम् । ते । अर॑म् । सु॒तेभिः॑ । कृ॒ण॒वा॒म॒ । सोमैः॑ ॥मा । ते । हरी इति । वृषणा । वीतपृष्ठा । नि । रीरमन् । यजमानासः । अन्ये । अतिआयाहि । शश्वतः । वयम् । ते । अरम् । सुतेभिः । कृणवाम । सोमैः ॥mā | te | harī iti | vṛṣaṇā | vīta-pṛṣṭhā | ni | rīraman | yajamānāsaḥ | anye | ati-āyāhi | śaśvataḥ | vayam | te | aram | sutebhiḥ | kṛṇavāma | somaiḥ