Sukta 3.35
ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू । स्थिरं रथं सुखमिन्द्राधितिष्ठन्प्रजानन्विद्वाँ उप याहि सोमम् ॥
ब्रह्म॑णा ते ब्रह्म॒युजा॑ युनज्मि॒ हरी॒ सखा॑या सध॒माद॑ आ॒शू । स्थि॒रं रथं॑ सु॒खमि॑न्द्राधि॒तिष्ठ॑न्प्रजा॒नन्वि॒द्वाँ उप॑ याहि॒ सोम॑म् ॥
bráhmaṇā te brahma-yújā yúnajmi hárī sákhāyā sadha-mā́da āśú | sthiráṁ ráthaṁ súkham indrādhi-tíṣṭhan prajā́nann vidvā́n úpa yāhi sómam ||
By the power of the mantric insight (brahman) I yoke for you the two tawny steeds, joined by the sacred Word, swift comrades for the common ecstasy. Mount firmly the stable and happy chariot, O Indra; knowing and discerning, come near to the Soma-delight.
ब्रह्म॑णा । ते॒ । ब्र॒ह्म॒ऽयुजा॑ । यु॒न॒ज्मि॒ । हरी॒ इति॑ । सखा॑या । स॒ध॒ऽमादे॑ । आ॒शू इति॑ । स्थि॒रम् । रथ॑म् । सु॒खम् । इ॒न्द्र॒ । अ॒धि॒ऽतिष्ठ॑न् । प्र॒ऽजा॒नन् । वि॒द्वाम् । उप॑ । या॒हि॒ । सोम॑म् ॥ब्रह्मणा । ते । ब्रह्मयुजा । युनज्मि । हरी इति । सखाया । सधमादे । आशू इति । स्थिरम् । रथम् । सुखम् । इन्द्र । अधितिष्ठन् । प्रजानन् । विद्वाम् । उप । याहि । सोमम् ॥brahmaṇā | te | brahma-yujā | yunajmi | harī iti | sakhāyā | sadha-māde | āśū iti | sthiram | ratham | sukham | indra | adhi-tiṣṭhan | pra-jānan | vidvām | upa | yāhi | somam