Sukta 3.35
उपो नयस्व वृषणा तपुष्पोतेमव त्वं वृषभ स्वधावः । ग्रसेतामश्वा वि मुचेह शोणा दिवेदिवे सदृशीरद्धि धानाः ॥
उपो॑ नयस्व॒ वृष॑णा तपु॒ष्पोतेम॑व॒ त्वं वृ॑षभ स्वधावः । ग्रसे॑ता॒मश्वा॒ वि मु॑चे॒ह शोणा॑ दि॒वेदि॑वे स॒दृशी॑रद्धि धा॒नाः ॥
upó nayasva vṛ́ṣaṇā tapúṣpótem áva tváṃ vṛṣabha svadhāvaḥ | grásētām áśvā ví mucéhá śóṇā divédive sadṛ́śīr addhi dhānā́ḥ ||
Lead us near, O two strong ones, drinkers of the heat-force; and thou too, O Bull, protect—self-powered. Let the horses graze; unyoke here the ruddy pair. Day by day eat the grains that answer to thee.
उपो॒ इति॑ । न॒य॒स्व॒ । वृष॑णा । त॒पुः॒ऽपा । उ॒त । ई॒म् । अ॒व॒ । त्वम् । वृ॒ष॒भ॒ । स्व॒धा॒ऽवः॒ । ग्रसे॑ताम् । अश्वा॑ । वि । मु॒च॒ । इ॒ह । शोणा॑ । दि॒वेऽदि॑वे । स॒ऽदृशीः॑ । अ॒द्धि॒ । धा॒नाः ॥उपो इति । नयस्व । वृषणा । तपुःपा । उत । ईम् । अव । त्वम् । वृषभ । स्वधावः । ग्रसेताम् । अश्वा । वि । मुच । इह । शोणा । दिवेदिवे । सदृशीः । अद्धि । धानाः ॥upo iti | nayasva | vṛṣaṇā | tapuḥ-pā | uta | īm | ava | tvam | vṛṣabha | svadhāvaḥ | grasetām | aśvā | vi | muca | iha | śoṇā | dive--dive | sa-dṛśīḥ | addhi | dhānāḥ