Sukta 3.35
उपाजिरा पुरुहूताय सप्ती हरी रथस्य धूर्ष्वा युनज्मि । द्रवद्यथा सम्भृतं विश्वतश्चिदुपेमं यज्ञमा वहात इन्द्रम् ॥
उपा॑जि॒रा पु॑रुहू॒ताय॒ सप्ती॒ हरी॒ रथ॑स्य धू॒र्ष्वा यु॑नज्मि । द्र॒वद्यथा॒ सम्भृ॑तं वि॒श्वत॑श्चि॒दुपे॒मं य॒ज्ञमा व॑हात॒ इन्द्र॑म् ॥
upā́jirā puruhūtā́ya saptī́ hárī ráthasya dhū́rṣv ā́ yunajmi | dravád yáthā sámbhṛtaṃ viśvátas cid upémáṃ yajñám ā́ vahāta índram ||
Near, swift, for the much-invoked—these two bay steeds I yoke to the chariot-poles. Running as to a gathering prepared from all sides, bring Indra here to this sacrifice.
उप॑ । अ॒जि॒रा । पु॒रु॒ऽहू॒ताय॑ । सप्ती॒ इति॑ । हरी॒ इति॑ । रथ॑स्य । धूः॒ऽसु । आ । यु॒न॒ज्मि॒ । द्र॒वत् । यथा॑ । सम्ऽभृ॑तम् । वि॒श्वतः॑ । चि॒त् । उप॑ । इ॒मम् । य॒ज्ञम् । आ । व॒हा॒तः॒ । इन्द्र॑म् ॥उप । अजिरा । पुरुहूताय । सप्ती इति । हरी इति । रथस्य । धूःसु । आ । युनज्मि । द्रवत् । यथा । सम्भृतम् । विश्वतः । चित् । उप । इमम् । यज्ञम् । आ । वहातः । इन्द्रम् ॥upa | ajirā | puru-hūtāya | saptī iti | harī iti | rathasya | dhūḥ-su | ā | yunajmi | dravat | yathā | sam-bhṛtam | viśvataḥ | cit | upa | imam | yajñam | ā | vahātaḥ | indram