Sukta 3.34
सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः । ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः ॥
स॒त्रा॒साहं॒ वरे॑ण्यं सहो॒दां स॑स॒वांसं॒ स्व॑र॒पश्च॑ दे॒वीः । स॒सान॒ यः पृ॑थि॒वीं द्यामु॒तेमामिन्द्रं॑ मद॒न्त्यनु॒ धीर॑णासः ॥
satrāsā́haṃ váreṇyaṃ sahodā́ṃ sasavā́ṃsaṃ svàr ápaś ca devī́ḥ | sasā́na yáḥ pṛthivī́ṃ dyā́m utémām índraṃ madanty ánu dhī́raṇāsaḥ ||
The all-conquering, the choice-worthy, the giver of force; who has won the heaven-light and the divine waters. He who has mastered earth and heaven and this world—after him the steadfast minds rejoice in Indra.
स॒त्रा॒ऽसहम् । वरे॑ण्यम् । स॒हः॒ऽदाम् । स॒स॒वांस॑म् । स्वः॑ । अ॒पः । च॒ । दे॒वीः । स॒सान॑ । यः । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । इन्द्र॑म् । म॒द॒न्ति॒ । अनु॑ । धीऽर॑णासः ॥सत्रासहम् । वरेण्यम् । सहःदाम् । ससवांसम् । स्वः । अपः । च । देवीः । ससान । यः । पृथिवीम् । द्याम् । उत । इमाम् । इन्द्रम् । मदन्ति । अनु । धीरणासः ॥satrāsaham | vareṇyam | sahaḥ-dām | sasavāṃsam | svaḥ | apaḥ | ca | devīḥ | sasāna | yaḥ | pṛthivīm | dyām | uta | imām | indram | madanti | anu | dhī-raṇāsaḥ