Sukta 3.34
युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः । विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति ॥
यु॒धेन्द्रो॑ म॒ह्ना वरि॑वश्चकार दे॒वेभ्य॒: सत्प॑तिश्चर्षणि॒प्राः । वि॒वस्व॑त॒: सद॑ने अस्य॒ तानि॒ विप्रा॑ उ॒क्थेभि॑: क॒वयो॑ गृणन्ति ॥
yudhéndro mahnā́ várivaś cakāra devébhyaḥ sátpatiś carṣaṇiprā́ḥ | vivásvataḥ sádane asya tā́ni víprā ukthebhíḥ kaváyo gṛṇanti ||
By battle Indra, by his greatness, made a wide way for the gods—the true lord, the fulfiller of the peoples. Those deeds of his in the seat of Vivasvat the inspired seers and poets proclaim with their hymns.
यु॒धा । इन्द्रः॑ । म॒ह्ना । वरि॑वः । च॒का॒र॒ । दे॒वेभ्यः॑ । सत्ऽप॑तिः । च॒र्ष॒णि॒ऽप्राः । वि॒वस्व॑तः । सद॑ने । अ॒स्य॒ । तानि॑ । विप्राः॑ । उ॒क्थेभिः॑ । क॒वयः॑ । गृ॒ण॒न्ति॒ ॥युधा । इन्द्रः । मह्ना । वरिवः । चकार । देवेभ्यः । सत्पतिः । चर्षणिप्राः । विवस्वतः । सदने । अस्य । तानि । विप्राः । उक्थेभिः । कवयः । गृणन्ति ॥yudhā | indraḥ | mahnā | varivaḥ | cakāra | devebhyaḥ | sat-patiḥ | carṣaṇi-prāḥ | vivasvataḥ | sadane | asya | tāni | viprāḥ | ukthebhiḥ | kavayaḥ | gṛṇanti