Sukta 3.34
महो महानि पनयन्त्यस्येन्द्रस्य कर्म सुकृता पुरूणि । वृजनेन वृजिनान्त्सं पिपेष मायाभिर्दस्यूँरभिभूत्योजाः ॥
म॒हो म॒हानि॑ पनयन्त्य॒स्येन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ । वृ॒जने॑न वृजि॒नान्त्सं पि॑पेष मा॒याभि॒र्दस्यूँ॑र॒भिभू॑त्योजाः ॥
mahó mahā́ni panayanty asyéndrasya kárma súkṛtā purū́ṇi | vṛjánena vṛjinā́nt sám pipeṣa māyā́bhir dasyū́ṃr abhíbhūtyojāḥ ||
Great and mighty are the works of Indra that men celebrate—many, well-fashioned acts. With the straightening power he grinds down the crooked; with his masteries he overcomes the Dasyus, by a force that cannot be dominated.
म॒हः । म॒हानि॑ । प॒न॒य॒न्ति॒ । अ॒स्य॒ । इन्द्र॑स्य । कर्म॑ । सुऽकृ॑ता । पु॒रूणि॑ । वृ॒जने॑न । वृ॒जि॒नान् । सम् । पि॒पे॒ष॒ । मा॒याभिः॑ । दस्यू॑ँन् । अ॒भिभू॑तिऽओजाः ॥महः । महानि । पनयन्ति । अस्य । इन्द्रस्य । कर्म । सुकृता । पुरूणि । वृजनेन । वृजिनान् । सम् । पिपेष । मायाभिः । दस्यूँन् । अभिभूतिओजाः ॥mahaḥ | mahāni | panayanti | asya | indrasya | karma | su-kṛtā | purūṇi | vṛjanena | vṛjinān | sam | pipeṣa | māyābhiḥ | dasyūṃn | abhibhūti-ojāḥ