Sukta 3.34
इन्द्रस्तुजो बर्हणा आ विवेश नृवद्दधानो नर्या पुरूणि । अचेतयद्धिय इमा जरित्रे प्रेमं वर्णमतिरच्छुक्रमासाम् ॥
इन्द्र॒स्तुजो॑ ब॒र्हणा॒ आ वि॑वेश नृ॒वद्दधा॑नो॒ नर्या॑ पु॒रूणि॑ । अचे॑तय॒द्धिय॑ इ॒मा ज॑रि॒त्रे प्रेमं वर्ण॑मतिरच्छु॒क्रमा॑साम् ॥
índras tujás barháṇā́ ā́ viveśa nṛvád dadhā́no náryā purū́ṇi | ácetayad dhíya imā́ jaritré prá imáṃ várṇam atirat śukrám āsām ||
Indra, the impeller and enlarger, has entered; bearing the powers that uplift the human being, many and manifold. He awakens these thoughts in the singer; he has carried forward for them this bright lustre—this shining hue of the soul’s energies.
इन्द्रः॑ । तुजः॑ । ब॒र्हणाः॑ । आ । वि॒वे॒श॒ । नृ॒ऽवत् । दधा॑नः । नर्या॑ । पु॒रूणि॑ । अचे॑तयत् । धियः॑ । इ॒माः । ज॒रि॒त्रे । प्र । इ॒मम् । वर्ण॑म् । अ॒ति॒र॒त् । शु॒क्रम् । आ॒सा॒म् ॥इन्द्रः । तुजः । बर्हणाः । आ । विवेश । नृवत् । दधानः । नर्या । पुरूणि । अचेतयत् । धियः । इमाः । जरित्रे । प्र । इमम् । वर्णम् । अतिरत् । शुक्रम् । आसाम् ॥indraḥ | tujaḥ | barhaṇāḥ | ā | viveśa | nṛ-vat | dadhānaḥ | naryā | purūṇi | acetayat | dhiyaḥ | imāḥ | jaritre | pra | imam | varṇam | atirat | śukram | āsām