Sukta 3.34
इन्द्रः स्वर्षा जनयन्नहानि जिगायोशिग्भिः पृतना अभिष्टिः । प्रारोचयन्मनवे केतुमह्नामविन्दज्ज्योतिर्बृहते रणाय ॥
इन्द्र॑: स्व॒र्षा ज॒नय॒न्नहा॑नि जि॒गायो॒शिग्भि॒: पृत॑ना अभि॒ष्टिः । प्रारो॑चय॒न्मन॑वे के॒तुमह्ना॒मवि॑न्द॒ज्ज्योति॑र्बृह॒ते रणा॑य ॥
índraḥ svaḥ-ṣā́ janáyan áhāni jigā́yośíg-bhiḥ pṛ́tanā abhiṣṭíḥ | prā́rocayan mánave ketúm áhṇām ávindaj jyótir bṛhaté ráṇāya ||
Indra, winning the sun-world, brought the days to birth; with the fiery seekers he conquered the battles, the helper in the onset. He made the sign of the days shine out for Manu, and found the vast Light for the great combat.
इन्द्रः॑ । स्वः॒ऽसा । ज॒नय॑न् । अहा॑नि । जि॒गाय॑ । उ॒शिक्ऽभिः॑ । पृत॑नाः । अ॒भि॒ष्टिः । प्र । अ॒रो॒च॒य॒त् । मन॑वे । के॒तुम् । अह्ना॑म् । अवि॑न्दत् । ज्योतिः॑ । बृ॒ह॒ते । रणा॑य ॥इन्द्रः । स्वःसा । जनयन् । अहानि । जिगाय । उशिक्भिः । पृतनाः । अभिष्टिः । प्र । अरोचयत् । मनवे । केतुम् । अह्नाम् । अविन्दत् । ज्योतिः । बृहते । रणाय ॥indraḥ | svaḥ-sā | janayan | ahāni | jigāya | uśik-bhiḥ | pṛtanāḥ | abhiṣṭiḥ | pra | arocayat | manave | ketum | ahnām | avindat | jyotiḥ | bṛhate | raṇāya