Sukta 3.34
इन्द्रो वृत्रमवृणोच्छर्धनीतिः प्र मायिनाममिनाद्वर्पणीतिः । अहन्व्यंसमुशधग्वनेष्वाविर्धेना अकृणोद्राम्याणाम् ॥
इन्द्रो॑ वृ॒त्रम॑वृणो॒च्छर्ध॑नीति॒: प्र मा॒यिना॑ममिना॒द्वर्प॑णीतिः । अह॒न्व्यं॑समु॒शध॒ग्वने॑ष्वा॒विर्धेना॑ अकृणोद्रा॒म्याणा॑म् ॥
índro vṛtrám avṛṇoc chárdha-nītiḥ prá māyínām aminād várpa-nītiḥ | áhann ví-aṃsam uśádhak váneṣv āvír dhénā akṛṇod rāmyā́ṇām ||
Indra uncovered Vṛtra, leader of the assault; he broke the forms of the magicians, master of right shaping. He smote the obstructer in the woods, and made the radiant herds manifest—delights that move in the open.
इन्द्रः॑ । वृ॒त्रम् । अ॒वृ॒णो॒त् । शर्ध॑ऽनीतिः । प्र । मा॒यिना॑म् । अ॒मि॒ना॒त् । वर्प॑ऽनीतिः । अह॒न् । विऽअं॑सम् । उ॒शध॑क् । वने॑षु । आ॒विः । धेनाः॑ । अ॒कृ॒णो॒त् । रा॒म्याणा॑म् ॥इन्द्रः । वृत्रम् । अवृणोत् । शर्धनीतिः । प्र । मायिनाम् । अमिनात् । वर्पनीतिः । अहन् । विअंसम् । उशधक् । वनेषु । आविः । धेनाः । अकृणोत् । राम्याणाम् ॥indraḥ | vṛtram | avṛṇot | śardha-nītiḥ | pra | māyinām | amināt | varpa-nītiḥ | ahan | vi-aṃsam | uśadhak | vaneṣu | āviḥ | dhenāḥ | akṛṇot | rāmyāṇām