Sukta 3.32
अद्रोघ सत्यं तव तन्महित्वं सद्यो यज्जातो अपिबो ह सोमम् । न द्याव इन्द्र तवसस्त ओजो नाहा न मासाः शरदो वरन्त ॥
अद्रो॑घ स॒त्यं तव॒ तन्म॑हि॒त्वं स॒द्यो यज्जा॒तो अपि॑बो ह॒ सोम॑म् । न द्याव॑ इन्द्र त॒वस॑स्त॒ ओजो॒ नाहा॒ न मासा॑: श॒रदो॑ वरन्त ॥
ádrogha satyáṃ táva tán mahitváṃ sadyó yáj jā́to ápībo há sómam | ná dyā́va indra távasas tá ojó náhā ná māsā́ḥ śarádo varanta ||
O faultless one, true is that greatness of yours: that as soon as you were born you drank the Soma. Neither the heavens, O Indra, can hold back your forceful might—nor days, nor months, nor the years restrain it.
अद्रो॑घ । स॒त्यम् । तव॑ । तत् । म॒हि॒ऽत्वम् । स॒द्यः । यत् । जा॒तः । अपि॑बः । ह॒ । सोम॑म् । न । द्यावः॑ । इ॒न्द्र॒ । त॒वसः॑ । ते॒ । ओजः॑ । न । अहा॑ । न । मासाः॑ । श॒रदः॑ । व॒र॒न्त॒ ॥अद्रोघ । सत्यम् । तव । तत् । महित्वम् । सद्यः । यत् । जातः । अपिबः । ह । सोमम् । न । द्यावः । इन्द्र । तवसः । ते । ओजः । न । अहा । न । मासाः । शरदः । वरन्त ॥adrogha | satyam | tava | tat | mahi-tvam | sadyaḥ | yat | jātaḥ | apibaḥ | ha | somam | na | dyāvaḥ | indra | tavasaḥ | te | ojaḥ | na | ahā | na | māsāḥ | śaradaḥ | varanta