Sukta 3.32
इन्द्रस्य कर्म सुकृता पुरूणि व्रतानि देवा न मिनन्ति विश्वे । दाधार यः पृथिवीं द्यामुतेमां जजान सूर्यमुषसं सुदंसाः ॥
इन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ व्र॒तानि॑ दे॒वा न मि॑नन्ति॒ विश्वे॑ । दा॒धार॒ यः पृ॑थि॒वीं द्यामु॒तेमां ज॒जान॒ सूर्य॑मु॒षसं॑ सु॒दंसा॑: ॥
índrasya kárma su-kṛtā́ purū́ṇi vratā́ni devā́ ná minanti víśve | dādhā́ra yáḥ pṛthivī́ṃ dyā́m utémā́ṃ jajā́na sū́ryam uṣásaṃ su-dáṃsāḥ ||
Many are the well-wrought works of Indra; all the gods do not diminish his laws of action. He upholds Earth and this Heaven, and he brings to birth the Sun and the Dawn—of perfect and luminous skill.
इन्द्र॑स्य । कर्म॑ । सुऽकृ॑ता । पु॒रूणि॑ । व्र॒तानि॑ । दे॒वाः । न । मि॒न॒न्ति॒ । विश्वे॑ । दा॒धार॑ । यः । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । ज॒जान॑ । सूर्य॑म् । उ॒षस॑म् । सु॒ऽदंसाः॑ ॥इन्द्रस्य । कर्म । सुकृता । पुरूणि । व्रतानि । देवाः । न । मिनन्ति । विश्वे । दाधार । यः । पृथिवीम् । द्याम् । उत । इमाम् । जजान । सूर्यम् । उषसम् । सुदंसाः ॥indrasya | karma | su-kṛtā | purūṇi | vratāni | devāḥ | na | minanti | viśve | dādhāra | yaḥ | pṛthivīm | dyām | uta | imām | jajāna | sūryam | uṣasam | su-daṃsāḥ