Sukta 3.32
त्वं सद्यो अपिबो जात इन्द्र मदाय सोमं परमे व्योमन् । यद्ध द्यावापृथिवी आविवेशीरथाभवः पूर्व्यः कारुधायाः ॥
त्वं स॒द्यो अ॑पिबो जा॒त इ॑न्द्र॒ मदा॑य॒ सोमं॑ पर॒मे व्यो॑मन् । यद्ध॒ द्यावा॑पृथि॒वी आवि॑वेशी॒रथा॑भवः पू॒र्व्यः का॒रुधा॑याः ॥
tváṃ sadyó apibo jā́ta indra mádāya sómaṃ paramé vyòman | yád dha dyā́vāpṛthivī́ ā́viveśīr áthā́bhavaḥ pū́rvyaḥ kārúdhāyāḥ ||
You, as soon as you were born, drank the Soma for ecstasy in the highest heaven. When you entered into Heaven and Earth, then you became the ancient one, the first foundation of the inspired singer’s work.
त्वम् । स॒द्यः । अ॒पि॒बः॒ । ज॒तः । इ॒न्द्र॒ । मदा॑य । सोम॑म् । प॒र॒मे । विऽओ॑मन् । यत् । ह॒ । द्यावा॑पृथि॒वी इति॑ । आ । अवि॑वेशीः । अथ॑ । अ॒भ॒वः॒ । पू॒र्व्यः । का॒रुऽधा॑याः ॥त्वम् । सद्यः । अपिबः । जतः । इन्द्र । मदाय । सोमम् । परमे । विओमन् । यत् । ह । द्यावापृथिवी इति । आ । अविवेशीः । अथ । अभवः । पूर्व्यः । कारुधायाः ॥tvam | sadyaḥ | apibaḥ | jataḥ | indra | madāya | somam | parame | vi-oman | yat | ha | dyāvāpṛthivī iti | ā | aviveśīḥ | atha | abhavaḥ | pūrvyaḥ | kāru-dhāyāḥ