Sukta 3.32
यजाम इन्नमसा वृद्धमिन्द्रं बृहन्तमृष्वमजरं युवानम् । यस्य प्रिये ममतुर्यज्ञियस्य न रोदसी महिमानं ममाते ॥
यजा॑म॒ इन्नम॑सा वृ॒द्धमिन्द्रं॑ बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा॑नम् । यस्य॑ प्रि॒ये म॒मतु॑र्य॒ज्ञिय॑स्य॒ न रोद॑सी महि॒मानं॑ म॒माते॑ ॥
yajā́ma ín namasā vṛ́ddham índraṃ bṛhántam ṛṣvám ajáraṃ yúvānam | yásya priyé mamatúr yajñíyasya ná ródasī mahimā́naṃ mamā́te ||
We worship with obeisance Indra, grown vast, the mighty and uplifted, ageless and ever-young. In the delight of that lovable, sacrifice-worthy power, neither Heaven nor Earth can measure his greatness.
यजा॑मः । इत् । नम॑सा । वृ॒द्धम् । इन्द्र॑म् । बृ॒हन्त॑म् । ऋ॒ष्वम् । अ॒जर॑म् । युवा॑नम् । यस्य॑ । प्रि॒ये । म॒मतुः॑ । य॒ज्ञिय॑स्य । न । रोद॑सी॒ इति॑ । म॒हि॒मान॑म् । म॒माते॒ इति॑ ॥यजामः । इत् । नमसा । वृद्धम् । इन्द्रम् । बृहन्तम् । ऋष्वम् । अजरम् । युवानम् । यस्य । प्रिये । ममतुः । यज्ञियस्य । न । रोदसी इति । महिमानम् । ममाते इति ॥yajāmaḥ | it | namasā | vṛddham | indram | bṛhantam | ṛṣvam | ajaram | yuvānam | yasya | priye | mamatuḥ | yajñiyasya | na | rodasī iti | mahimānam | mamāteiti