Sukta 3.32
त्वमपो यद्ध वृत्रं जघन्वाँ अत्याँ इव प्रासृजः सर्तवाजौ । शयानमिन्द्र चरता वधेन वव्रिवांसं परि देवीरदेवम् ॥
त्वम॒पो यद्ध॑ वृ॒त्रं ज॑घ॒न्वाँ अत्याँ॑ इव॒ प्रासृ॑ज॒: सर्त॒वाजौ । शया॑नमिन्द्र॒ चर॑ता व॒धेन॑ वव्रि॒वांसं॒ परि॑ दे॒वीरदे॑वम् ॥
tvám apó yád dha vṛtráṃ jaghanvā́m̐ atyā́n iva prá̄sṛjaḥ sártavā́jau | śáyānam indra cáratā vadhéna vavri-vā́ṃsaṃ pári devī́r ádevam ||
When you had slain Vṛtra, you drove the waters forth, like racers released to run in the contest. Indra, you struck down with your moving blow the one who lay there, the coverer encircling the divine streams, the undivine power.
त्वम् । अ॒पः । यत् । ह॒ । वृ॒त्रम् । ज॒घ॒न्वान् । अत्या॑न्ऽइव । प्र । असृ॑जः । सर्त॒वै । आ॒जौ । शया॑नम् । इ॒न्द्र॒ । चर॑ता । व॒धेन॑ । व॒व्रि॒ऽवांस॑म् । परि॑ । दे॒वीः । अदे॑वम् ॥त्वम् । अपः । यत् । ह । वृत्रम् । जघन्वान् । अत्यान्इव । प्र । असृजः । सर्तवै । आजौ । शयानम् । इन्द्र । चरता । वधेन । वव्रिवांसम् । परि । देवीः । अदेवम् ॥tvam | apaḥ | yat | ha | vṛtram | jaghanvān | atyān-iva | pra | asṛjaḥ | sartavai | ājau | śayānam | indra | caratā | vadhena | vavri-vāṃsam | pari | devīḥ | adevam