Sukta 3.32
त इन्न्वस्य मधुमद्विविप्र इन्द्रस्य शर्धो मरुतो य आसन् । येभिर्वृत्रस्येषितो विवेदामर्मणो मन्यमानस्य मर्म ॥
त इन्न्व॑स्य॒ मधु॑मद्विविप्र॒ इन्द्र॑स्य॒ शर्धो॑ म॒रुतो॒ य आस॑न् । येभि॑र्वृ॒त्रस्ये॑षि॒तो वि॒वेदा॑म॒र्मणो॒ मन्य॑मानस्य॒ मर्म॑ ॥
tá ín nv asya mádhumad vivipra índrasya śárdho marúto yá āsan | yébhir vṛtrásyeṣitó vivédā́marmáṇo mányamānasya márma ||
Indeed those Maruts, the honeyed inspirers, were the troop of Indra. With them he found out the vulnerable point—the vital secret—of Vṛtra when he was driven on, though thinking himself unpierceable.
ते । इत् । नु । अ॒स्य॒ । मधु॑ऽमत् । वि॒वि॒प्रे॒ । इन्द्र॑स्य । शर्धः॑ । म॒रुतः॑ । ये । आस॑न् । येभिः॑ । वृ॒त्रस्य॑ । इ॒षि॒तः । वि॒वेद॑ । अ॒म॒र्मणः॑ । मन्य॑मानस्य । मर्म॑ ॥ते । इत् । नु । अस्य । मधुमत् । विविप्रे । इन्द्रस्य । शर्धः । मरुतः । ये । आसन् । येभिः । वृत्रस्य । इषितः । विवेद । अमर्मणः । मन्यमानस्य । मर्म ॥te | it | nu | asya | madhu-mat | vivipre | indrasya | śardhaḥ | marutaḥ | ye | āsan | yebhiḥ | vṛtrasya | iṣitaḥ | viveda | amarmaṇaḥ | manyamānasya | marma