Sukta 3.32
ये ते शुष्मं ये तविषीमवर्धन्नर्चन्त इन्द्र मरुतस्त ओजः । माध्यंदिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः सुशिप्र ॥
ये ते॒ शुष्मं॒ ये तवि॑षी॒मव॑र्ध॒न्नर्च॑न्त इन्द्र म॒रुत॑स्त॒ ओज॑: । माध्यं॑दिने॒ सव॑ने वज्रहस्त॒ पिबा॑ रु॒द्रेभि॒: सग॑णः सुशिप्र ॥
yé te śúṣmaṃ yé táviṣīm ávardhann árcanta índra marútas tá ójaḥ | mā́dhyandine sávane vajrahasta píba rudrébhiḥ ságaṇaḥ suśipra ||
Those who increased your force, those who increased your might—praising you, O Indra—the Maruts, they are your power. At the midday pressing, O wielder of the thunderbolt, drink with the Rudras, with your host, O fair-cheeked one.
ये । ते॒ । शुष्म॑म् । ये । तवि॑षीम् । अव॑र्धन् । अर्च॑न्तः । इ॒न्द्र॒ । म॒रुतः॑ । ते॒ । ओजः॑ । माध्य॑न्दिने । सव॑ने । व॒ज्र॒ऽह॒स्त॒ । पिब॑ । रु॒द्रेभिः॑ । सऽग॑णः । सु॒ऽशि॒प्र॒ ॥ये । ते । शुष्मम् । ये । तविषीम् । अवर्धन् । अर्चन्तः । इन्द्र । मरुतः । ते । ओजः । माध्यन्दिने । सवने । वज्रहस्त । पिब । रुद्रेभिः । सगणः । सुशिप्र ॥ye | te | śuṣmam | ye | taviṣīm | avardhan | arcantaḥ | indra | marutaḥ | te | ojaḥ | mādhyandine | savane | vajra-hasta | piba | rudrebhiḥ | sa-gaṇaḥ | su-śipra