Sukta 3.32
न त्वा गभीरः पुरुहूत सिन्धुर्नाद्रयः परि षन्तो वरन्त । इत्था सखिभ्य इषितो यदिन्द्रा दृळ्हं चिदरुजो गव्यमूर्वम् ॥
न त्वा॑ गभी॒रः पु॑रुहूत॒ सिन्धु॒र्नाद्र॑य॒: परि॒ षन्तो॑ वरन्त । इ॒त्था सखि॑भ्य इषि॒तो यदि॒न्द्रा दृ॒ळ्हं चि॒दरु॑जो॒ गव्य॑मू॒र्वम् ॥
ná tvā gabhīráḥ puruhūta síndhur nā́drayaḥ pári ṣánto varanta | ítthā sákhibhya iṣitó yád índrā dṛḷháṃ cid árujo gávyam ūrvám ||
Neither the deep river, O much-invoked, nor the enclosing stones can hold you back. Thus urged on for the sake of your comrades, O Indra, you break open even the firm enclosure where the rays of light (cows) are held.
न । त्वा॒ । ग॒भी॒रः । पु॒रु॒ऽहू॒त॒ । सिन्धुः॑ । न । अद्र॑यः । परि॑ । सन्तः॑ । व॒र॒न्त॒ । इ॒त्था । सखि॑ऽभ्यः । इ॒षि॒तः । यत् । इ॒न्द्र॒ । आ । दृ॒ळ्हम् । चि॒त् । अरु॑जः । गव्य॑म् । ऊ॒र्वम् ॥न । त्वा । गभीरः । पुरुहूत । सिन्धुः । न । अद्रयः । परि । सन्तः । वरन्त । इत्था । सखिभ्यः । इषितः । यत् । इन्द्र । आ । दृळ्हम् । चित् । अरुजः । गव्यम् । ऊर्वम् ॥na | tvā | gabhīraḥ | puru-hūta | sindhuḥ | na | adrayaḥ | pari | santaḥ | varanta | itthā | sakhi-bhyaḥ | iṣitaḥ | yat | indra | ā | dṛḷham | cit | arujaḥ | gavyam | ūrvam