Sukta 3.32
विवेष यन्मा धिषणा जजान स्तवै पुरा पार्यादिन्द्रमह्नः । अंहसो यत्र पीपरद्यथा नो नावेव यान्तमुभये हवन्ते ॥
वि॒वेष॒ यन्मा॑ धि॒षणा॑ ज॒जान॒ स्तवै॑ पु॒रा पार्या॒दिन्द्र॒मह्न॑: । अंह॑सो॒ यत्र॑ पी॒पर॒द्यथा॑ नो ना॒वेव॒ यान्त॑मु॒भये॑ हवन्ते ॥
vivéṣa yán mā dhiṣáṇā jajā́na stávai purā́ pā́ryād índram áhnaḥ | áṃhaso yátra pī́parad yáthā no nā́veva yā́ntam ubháye havante ||
It has entered me—what the inspired intelligence has brought to birth: that I should praise Indra, to carry us across from the distress of the day. There, where he makes us pass beyond the narrowness, as with a boat crossing, both shores call to the one who is going.
वि॒वेष॑ । यत् । मा॒ । धि॒षणा॑ । ज॒जान॑ । स्तवै॑ । पु॒रा । पार्या॑त् । इन्द्र॑म् । अह्नः॑ । अंह॑सः । यत्र॑ । पी॒पर॑त् । यथा॑ । नः॒ । ना॒वाऽइ॑व । यान्त॑म् । उ॒भये॑ । ह॒व॒न्ते॒ ॥विवेष । यत् । मा । धिषणा । जजान । स्तवै । पुरा । पार्यात् । इन्द्रम् । अह्नः । अंहसः । यत्र । पीपरत् । यथा । नः । नावाइव । यान्तम् । उभये । हवन्ते ॥viveṣa | yat | mā | dhiṣaṇā | jajāna | stavai | purā | pāryāt | indram | ahnaḥ | aṃhasaḥ | yatra | pīparat | yathā | naḥ | nāvāiva | yāntam | ubhaye | havante