Sukta 3.32
यज्ञेनेन्द्रमवसा चक्रे अर्वागैनं सुम्नाय नव्यसे ववृत्याम् । यः स्तोमेभिर्वावृधे पूर्व्येभिर्यो मध्यमेभिरुत नूतनेभिः ॥
य॒ज्ञेनेन्द्र॒मव॒सा च॑क्रे अ॒र्वागैनं॑ सु॒म्नाय॒ नव्य॑से ववृत्याम् । यः स्तोमे॑भिर्वावृ॒धे पू॒र्व्येभि॒र्यो म॑ध्य॒मेभि॑रु॒त नूत॑नेभिः ॥
yajñénendraṃ avasā́ cakre arvā́g enaṃ sumnā́ya návyase vavṛtyā́m | yáḥ stómebhir vāvṛdhé pū́rvyebhir yó madhyamébhir utá nū́tanebhiḥ ||
By sacrifice, with help, I have made Indra turn hither; for a newer grace I would draw him near. He who grows by hymns—by those of old, by those of the middle time, and also by the new.
य॒ज्ञेन॑ । इन्द्र॑म् । अव॑सा । आ । च॒क्रे॒ । अ॒र्वाक् । आ । ए॒न॒म् । सु॒म्नाय॑ । नव्य॑से । व॒वृ॒त्या॒म् । यः । स्तोमे॑भिः । व॒वृ॒धे । पू॒र्व्येभिः॑ । यः । म॒ध्य॒मेभिः॑ । उ॒त । नूत॑नेभिः ॥यज्ञेन । इन्द्रम् । अवसा । आ । चक्रे । अर्वाक् । आ । एनम् । सुम्नाय । नव्यसे । ववृत्याम् । यः । स्तोमेभिः । ववृधे । पूर्व्येभिः । यः । मध्यमेभिः । उत । नूतनेभिः ॥yajñena | indram | avasā | ā | cakre | arvāk | ā | enam | sumnāya | navyase | vavṛtyām | yaḥ | stomebhiḥ | vavṛdhe | pūrvyebhiḥ | yaḥ | madhyamebhiḥ | uta | nūtanebh iḥ