Sukta 3.32
यज्ञो हि त इन्द्र वर्धनो भूदुत प्रियः सुतसोमो मियेधः । यज्ञेन यज्ञमव यज्ञियः सन्यज्ञस्ते वज्रमहिहत्य आवत् ॥
य॒ज्ञो हि त॑ इन्द्र॒ वर्ध॑नो॒ भूदु॒त प्रि॒यः सु॒तसो॑मो मि॒येध॑: । य॒ज्ञेन॑ य॒ज्ञम॑व य॒ज्ञिय॒: सन्य॒ज्ञस्ते॒ वज्र॑महि॒हत्य॑ आवत् ॥
yajñó hí ta indra várdhano bhūd utá priyáḥ sutá-somo miyédhaḥ | yajñéna yajñám ava yajñíyaḥ sán yajñás te vájram ahi-hátye ā́vat ||
For you, O Indra, the sacrifice becomes an increaser, and dear is the pressed Soma, the sweet offering. By sacrifice protect the sacrifice, you who are sacrifice-worthy; the yajña has strengthened your thunderbolt for the slaying of the serpent-force.
य॒ज्ञः । हि । ते॒ । इ॒न्द्र॒ । वर्ध॑नः । भूत् । उ॒त । प्रि॒यः । सु॒तऽसो॑मः । मि॒येधः॑ । य॒ज्ञेन॑ । य॒ज्ञम् । अ॒व॒ । य॒ज्ञियः॑ । सन् । य॒ज्ञः । ते॒ । वज्र॑म् । अ॒हि॒ऽहत्ये॑ । आ॒व॒त् ॥यज्ञः । हि । ते । इन्द्र । वर्धनः । भूत् । उत । प्रियः । सुतसोमः । मियेधः । यज्ञेन । यज्ञम् । अव । यज्ञियः । सन् । यज्ञः । ते । वज्रम् । अहिहत्ये । आवत् ॥yajñaḥ | hi | te | indra | vardhanaḥ | bhūt | uta | priyaḥ | suta-somaḥ | miyedhaḥ | yajñena | yajñam | ava | yajñiyaḥ | san | yajñaḥ | te | vajram | ahi-hatye | āvat