Sukta 3.32
अहन्नहिं परिशयानमर्ण ओजायमानं तुविजात तव्यान् । न ते महित्वमनु भूदध द्यौर्यदन्यया स्फिग्या क्षामवस्थाः ॥
अह॒न्नहिं॑ परि॒शया॑न॒मर्ण॑ ओजा॒यमा॑नं तुविजात॒ तव्या॑न् । न ते॑ महि॒त्वमनु॑ भू॒दध॒ द्यौर्यद॒न्यया॑ स्फि॒ग्या॒३॒॑ क्षामव॑स्थाः ॥
ahán ahíṃ pari-śáyānam árṇa ojāyámānaṃ tuvi-jāta távyān | ná te mahitvám ánu bhūd ádha dyáur yád anyáyā sphigyā́ kṣā́m ávasthāḥ ||
You struck the Serpent who lay encircling the flood, growing in force—O mightily born, more puissant still. Then even Heaven could not follow your greatness, when with another support you set the earth in its place.
अह॒न् । अहि॑म् । प॒रि॒ऽशया॑नम् । अर्णः॑ । ओ॒जा॒यमा॑नम् । तु॒वि॒ऽजा॒त॒ । तव्या॑न् । न । ते॒ । म॒हि॒ऽत्वम् । अनु॑ । भू॒त् । अध॑ । द्यौः । यत् । अ॒न्यया॑ । स्फि॒ग्या॑ । क्षाम् । अव॑स्थाः ॥अहन् । अहिम् । परिशयानम् । अर्णः । ओजायमानम् । तुविजात । तव्यान् । न । ते । महित्वम् । अनु । भूत् । अध । द्यौः । यत् । अन्यया । स्फिग्या । क्षाम् । अवस्थाः ॥ahan | ahim | pari-śayānam | arṇaḥ | ojāyamānam | tuvi-jāta | tavyān | na | te | mahi-tvam | anu | bhūt | adha | dyauḥ | yat | anyayā | sphigyā | kṣām | avasthāḥ