Sukta 3.28
अग्ने तृतीये सवने हि कानिषः पुरोळाशं सहसः सूनवाहुतम् । अथा देवेष्वध्वरं विपन्यया धा रत्नवन्तममृतेषु जागृविम् ॥
अग्ने॑ तृ॒तीये॒ सव॑ने॒ हि कानि॑षः पुरो॒ळाशं॑ सहसः सून॒वाहु॑तम् । अथा॑ दे॒वेष्व॑ध्व॒रं वि॑प॒न्यया॒ धा रत्न॑वन्तम॒मृते॑षु॒ जागृ॑विम् ॥
ágné tṛtī́ye sávané hí kā́niṣaḥ puroḷā́śaṃ sáhasaḥ sū́no vā́hutam | áthā devéṣv adhvaráṃ vipanyáyā dhā́ ratnávantam amṛ́teṣu jā́gṛvim ||
O Agni, at the third pressing you indeed accept the offered cake, O son of Force. Then, by your luminous delight, establish the sacrifice among the gods—rich in plenitude and awake among the immortals.
अग्ने॑ । तृ॒तीये॑ । सव॑ने । हि । कानि॑षः । पुरो॒ळाश॑म् । स॒ह॒सः॒ । सू॒नो॒ इति॑ । आऽहु॑तम् । अथ॑ । दे॒वेषु॑ । अ॒ध्व॒रम् । वि॒प॒न्यया॑ । धाः । रत्न॑ऽवन्तम् । अ॒मृते॑षु । जागृ॑विम् ॥अग्ने । तृतीये । सवने । हि । कानिषः । पुरोळाशम् । सहसः । सूनो इति । आहुतम् । अथ । देवेषु । अध्वरम् । विपन्यया । धाः । रत्नवन्तम् । अमृतेषु । जागृविम् ॥agne | tṛtīye | savane | hi | kāniṣaḥ | puroḷāśam | sahasaḥ | sūno iti | āhutam | atha | deveṣu | adhvaram | vipanyayā | dhāḥ | ratna-vantam | amṛteṣu | jāgṛvim