Sukta 3.28
माध्यंदिने सवने जातवेदः पुरोळाशमिह कवे जुषस्व । अग्ने यह्वस्य तव भागधेयं न प्र मिनन्ति विदथेषु धीराः ॥
माध्यं॑दिने॒ सव॑ने जातवेदः पुरो॒ळाश॑मि॒ह क॑वे जुषस्व । अग्ने॑ य॒ह्वस्य॒ तव॑ भाग॒धेयं॒ न प्र मि॑नन्ति वि॒दथे॑षु॒ धीरा॑: ॥
mā́dhyaṃdine sávané jātavedāḥ puroḷā́śam ihá kavé juṣasva | ágné yáhvasya táva bhāgadhéyaṃ ná prá minanti vidáthéṣu dhīrā́ḥ ||
At the midday pressing, O Jātavedas, accept here, O Seer-Fire, the formed offering. O Agni, your rightful share in the mighty movement is not diminished by the steadfast wise in their gatherings of knowledge.
माध्य॑न्दिने । सव॑ने । जा॒त॒ऽवे॒दः॒ । पु॒रो॒ळाश॑म् । इ॒ह । क॒वे॒ । जु॒ष॒स्व॒ । अग्ने॑ । य॒ह्वस्य॑ । तव॑ । भा॒ग॒ऽधेय॑म् । न । प्र । मि॒न॒न्ति॒ । वि॒दथे॑षु । धीराः॑ ॥माध्यन्दिने । सवने । जातवेदः । पुरोळाशम् । इह । कवे । जुषस्व । अग्ने । यह्वस्य । तव । भागधेयम् । न । प्र । मिनन्ति । विदथेषु । धीराः ॥mādhyandine | savane | jāta-vedaḥ | puroḷāśam | iha | kave | juṣasva | agne | yahvasya | tava | bhāga-dheyam | na | pra | minanti | vidatheṣu | dhīrāḥ