Sukta 3.28
अग्ने वृधान आहुतिं पुरोळाशं जातवेदः । जुषस्व तिरोअह्न्यम् ॥
अग्ने॑ वृधा॒न आहु॑तिं पुरो॒ळाशं॑ जातवेदः । जु॒षस्व॑ ति॒रोअ॑ह्न्यम् ॥
ágné vṛdhāná āhútiṃ puroḷā́śaṃ jātavedāḥ | juṣásva tiró-ahnyam ||
O Agni, growing in power, O Jātavedas, accept the offered oblation, the formed cake—this offering that carries us beyond the common day into the sacred wideness.
अग्ने॑ । वृ॒धा॒नः । आऽहु॑तिम् । पु॒रो॒ळाश॑म् । जा॒त॒ऽवे॒दः॒ । जु॒षस्व॑ । ति॒रःऽअ॑ह्न्यम् ॥अग्ने । वृधानः । आहुतिम् । पुरोळाशम् । जातवेदः । जुषस्व । तिरःअह्न्यम् ॥agne | vṛdhānaḥ | āhutim | puroḷāśam | jāta-vedaḥ | juṣasva | tiraḥ-ahnyam