Sukta 3.28
अग्ने वीहि पुरोळाशमाहुतं तिरोअह्न्यम् । सहसः सूनुरस्यध्वरे हितः ॥
अग्ने॑ वी॒हि पु॑रो॒ळाश॒माहु॑तं ति॒रोअ॑ह्न्यम् । सह॑सः सू॒नुर॑स्यध्व॒रे हि॒तः ॥
ágné vīhí puroḷā́śam āhútam tiró-ahnyam | sáhasaḥ sūnúr asy adhvaré hitáḥ ||
O Agni, come and partake of the offered cake, the oblation set beyond the common day. You are the Son of Force, placed in the sacrifice as its secret support.
अग्ने॑ । वी॒हि । पु॒रो॒ळाश॑म् । आऽहु॑तम् । ति॒रःऽअ॑ह्न्यम् । सह॑सः । सू॒नुः । अ॒सि॒ । अ॒ध्व॒रे । हि॒तः ॥अग्ने । वीहि । पुरोळाशम् । आहुतम् । तिरःअह्न्यम् । सहसः । सूनुः । असि । अध्वरे । हितः ॥agne | vīhi | puroḷāśam | āhutam | tiraḥ-ahnyam | sahasaḥ | sūnuḥ | asi | adhvare | hitaḥ