Sukta 3.26
त्रिभिः पवित्रैरपुपोद्ध्यर्कं हृदा मतिं ज्योतिरनु प्रजानन् । वर्षिष्ठं रत्नमकृत स्वधाभिरादिद्द्यावापृथिवी पर्यपश्यत् ॥
त्रि॒भिः प॒वित्रै॒रपु॑पो॒द्ध्य१॒॑र्कं हृ॒दा म॒तिं ज्योति॒रनु॑ प्रजा॒नन् । वर्षि॑ष्ठं॒ रत्न॑मकृत स्व॒धाभि॒रादिद्द्यावा॑पृथि॒वी पर्य॑पश्यत् ॥
tribhíḥ pavítrair ápupod dhyàrkaṁ hṛdā́ matíṁ jyótir ánu prajā́nann | várṣiṣṭhaṁ rátnaṁ akṛta svadhā́bhir ād íd dyā́vāpṛthivī́ pár yapaśyat ||
With the three strainers he purified the hymn; with the heart he purified the thought, following the light in full knowing. By his own powers of right self-law he made the most raining treasure; then he encompassed and beheld Heaven and Earth.
त्रि॒ऽभिः । प॒वित्रैः॑ । अपु॑पोत् । हि । अ॒र्कम् । हृ॒दा । म॒तिम् । ज्योतिः॑ । अनु॑ । प्र॒ऽजा॒नन् । वर्षि॑ष्ठम् । रत्न॑म् । अ॒कृ॒त॒ । स्व॒धाभिः॑ । आत् । इत् । द्यावा॑पृथि॒वी इति॑ । परि॑ । अ॒प॒श्य॒त् ॥त्रिभिः । पवित्रैः । अपुपोत् । हि । अर्कम् । हृदा । मतिम् । ज्योतिः । अनु । प्रजानन् । वर्षिष्ठम् । रत्नम् । अकृत । स्वधाभिः । आत् । इत् । द्यावापृथिवी इति । परि । अपश्यत् ॥tri-bhiḥ | pavitraiḥ | apupot | hi | arkam | hṛdā | matim | jyotiḥ | anu | pra-jānan | varṣiṣṭham | ratnam | akṛta | svadhābhiḥ | āt | it | dyāvāpṛthivī iti | pari | apaśyat