Sukta 3.26
शतधारमुत्समक्षीयमाणं विपश्चितं पितरं वक्त्वानाम् । मेळिं मदन्तं पित्रोरुपस्थे तं रोदसी पिपृतं सत्यवाचम् ॥
श॒तधा॑र॒मुत्स॒मक्षी॑यमाणं विप॒श्चितं॑ पि॒तरं॒ वक्त्वा॑नाम् । मे॒ळिं मद॑न्तं पि॒त्रोरु॒पस्थे॒ तं रो॑दसी पिपृतं सत्य॒वाच॑म् ॥
śatádhāram útsam akṣī́yamāṇaṁ vipaścítaṁ pitáraṁ vaktvā́nām | meḷíṁ mádantaṁ pitrór upásthe táṁ rodasī́ pipṛtaṁ satyavā́cam ||
A hundred-streaming fountain, unfailing; the seer-father of the uttered words—him, the joyous Meḷi in the Father’s lap, the two worlds nourish and fill: him whose speech is truth.
श॒तऽधा॑रम् । उत्स॑म् । अक्षी॑यमाणम् । वि॒पः॒ऽचित॑म् । पि॒तर॑म् । वक्त्वा॑नाम् । मे॒ळिम् । मद॑न्तम् । पि॒त्रोः । उ॒पऽस्थे॑ । तम् । रो॒द॒सी॒ इति॑ । पि॒पृ॒त॒म् । स॒त्य॒ऽवाच॑म् ॥शतधारम् । उत्सम् । अक्षीयमाणम् । विपःचितम् । पितरम् । वक्त्वानाम् । मेळिम् । मदन्तम् । पित्रोः । उपस्थे । तम् । रोदसी इति । पिपृतम् । सत्यवाचम् ॥śata-dhāram | utsam | akṣīyamāṇam | vipaḥ-citam | pitaram | vaktvānām | meḷim | madantam | pitroḥ | upa-sthe | tam | rodasī iti | pipṛtam | satya-vācam