Sukta 3.26
अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन् । अर्कस्त्रिधातू रजसो विमानोऽजस्रो घर्मो हविरस्मि नाम ॥
अ॒ग्निर॑स्मि॒ जन्म॑ना जा॒तवे॑दा घृ॒तं मे॒ चक्षु॑र॒मृतं॑ म आ॒सन् । अ॒र्कस्त्रि॒धातू॒ रज॑सो वि॒मानोऽज॑स्रो घ॒र्मो ह॒विर॑स्मि॒ नाम॑ ॥
agnír asmi jánmanā jātávedā ghṛtáṁ me cákṣur amṛ́taṁ ma āsan | arkás tridhā́tū rájaso vimā́nō’jásro gharmó havír asmi nā́ma ||
I am Agni by birth, the knower of all becomings. Clarified light is my seeing, and the deathless is my dwelling. I am the hymn as the threefold-founded measure, spanning the mid-worlds; I am the unceasing heat of tapas—by name I am the offering.
अ॒ग्निः । अ॒स्मि॒ । जन्म॑ना । जा॒तऽवे॑दाः । घृ॒तम् । मे॒ । चक्षुः॑ । अ॒मृत॑म् । मे॒ । आ॒सन् । अ॒र्कः । त्रि॒ऽधातुः॑ । रज॑सः । वि॒ऽमानः॑ । अज॑स्रः । घ॒र्मः । ह॒विः । अ॒स्मि॒ । नाम॑ ॥अग्निः । अस्मि । जन्मना । जातवेदाः । घृतम् । मे । चक्षुः । अमृतम् । मे । आसन् । अर्कः । त्रिधातुः । रजसः । विमानः । अजस्रः । घर्मः । हविः । अस्मि । नाम ॥agniḥ | asmi | janmanā | jāta-vedāḥ | ghṛtam | me | cakṣuḥ | amṛtam | me | āsan | arkaḥ | tri-dhātuḥ | rajasaḥ | vi-mānaḥ | ajasraḥ | gharmaḥ | haviḥ | asmi | nāma