Sukta 3.26
व्रातंव्रातं गणंगणं सुशस्तिभिरग्नेर्भामं मरुतामोज ईमहे । पृषदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः ॥
व्रातं॑व्रातं ग॒णंग॑णं सुश॒स्तिभि॑र॒ग्नेर्भामं॑ म॒रुता॒मोज॑ ईमहे । पृष॑दश्वासो अनव॒भ्ररा॑धसो॒ गन्ता॑रो य॒ज्ञं वि॒दथे॑षु॒ धीरा॑: ॥
vrātáṁ-vrātaṁ gaṇáṁ-gaṇaṁ suśastíbhir agnér bhā́maṁ marútām ója īmahe | pṛ́ṣadaśvāsō anavabhrárādhaso gántāro yajñáṁ vidátheṣu dhī́rāḥ ||
Band after band, troop after troop, with clear and right praises we seek the shining power of Agni and the strength of the Maruts. Dapple-horsed, with unclouded bounty, they come to the sacrifice in the assemblies—wise in their discerning movement.
व्रात॑म्ऽव्रातम् । ग॒णम्ऽग॑णम् । सु॒श॒स्तिऽभिः॑ । अ॒ग्नेः । भाम॑म् । म॒रुता॑म् । ओजः॑ । ई॒म॒हे॒ । पृष॑त्ऽअश्वासः । अ॒न॒व॒भ्रऽरा॑धसः । गन्ता॑रः । य॒ज्ञम् । वि॒दथे॑षु । धीराः॑ ॥व्रातम्व्रातम् । गणम्गणम् । सुशस्तिभिः । अग्नेः । भामम् । मरुताम् । ओजः । ईमहे । पृषत्अश्वासः । अनवभ्रराधसः । गन्तारः । यज्ञम् । विदथेषु । धीराः ॥vrātam-vrātam | gaṇam-gaṇam | suśasti-bhiḥ | agneḥ | bhāmam | marutām | ojaḥ | īmahe | pṛṣat-aśvāsaḥ | anavabhra-rādhasaḥ | gantāraḥ | yajñam | vidatheṣu | dhīrāḥ