Sukta 3.26
अग्निश्रियो मरुतो विश्वकृष्टय आ त्वेषमुग्रमव ईमहे वयम् । ते स्वानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः ॥
अ॒ग्नि॒श्रियो॑ म॒रुतो॑ वि॒श्वकृ॑ष्टय॒ आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यम् । ते स्वा॒निनो॑ रु॒द्रिया॑ व॒र्षनि॑र्णिजः सिं॒हा न हे॒षक्र॑तवः सु॒दान॑वः ॥
agníśriyo marúto viśvákṛṣṭaya ā́ tveṣám ugrám áva īmahe vayám | te svānínaḥ rudríyā varṣánirṇijaḥ siṁhā́ na heṣákratavaḥ sudā́navaḥ ||
We call for the help of the Maruts who carry the splendour of Agni, powers belonging to all the peoples. We seek their fierce and vehement protection. Those roaring Rudra-powers, clothed in the rain’s shining force, are like lions—impetuous in will and generous in their giving.
अ॒ग्नि॒ऽश्रियः॑ । म॒रुतः॑ । वि॒श्वऽकृ॑ष्टयः । आ । त्वे॒षम् । उ॒ग्रम् । अवः॑ । ई॒म॒हे॒ । व॒यम् । ते । स्वा॒निनः॑ । रु॒द्रियाः॑ । व॒र्षऽनि॑र्निजः । सिं॒हाः । न । हे॒षऽक्र॑तवः । सु॒ऽदान॑वः ॥अग्निश्रियः । मरुतः । विश्वकृष्टयः । आ । त्वेषम् । उग्रम् । अवः । ईमहे । वयम् । ते । स्वानिनः । रुद्रियाः । वर्षनिर्निजः । सिंहाः । न । हेषक्रतवः । सुदानवः ॥agni-śriyaḥ | marutaḥ | viśva-kṛṣṭayaḥ | ā | tveṣam | ugram | avaḥ | īmahe | vayam | te | svāninaḥ | rudriyāḥ | varṣa-nirnijaḥ | siṃhāḥ | na | heṣa-kratavaḥ | su-dānavaḥ