Sukta 3.26
प्र यन्तु वाजास्तविषीभिरग्नयः शुभे सम्मिश्लाः पृषतीरयुक्षत । बृहदुक्षो मरुतो विश्ववेदसः प्र वेपयन्ति पर्वताँ अदाभ्याः ॥
प्र य॑न्तु॒ वाजा॒स्तवि॑षीभिर॒ग्नय॑: शु॒भे सम्मि॑श्ला॒: पृष॑तीरयुक्षत । बृ॒ह॒दुक्षो॑ म॒रुतो॑ वि॒श्ववे॑दस॒: प्र वे॑पयन्ति॒ पर्व॑ताँ॒ अदा॑भ्याः ॥
prá yantu vā́jās táviṣībhir agnáyaḥ śubhé sám-miślāḥ pṛ́ṣatīr ayukṣata | bṛhád-ukṣo marúto viśvá-vedasaḥ prá vepayanti párvatāṁ adā́bhyāḥ ||
Let the plenitudes of force go forth with the fires in their might; for the shining work they have yoked the dappled energies. The Maruts, strong-bull powers, all-knowing, irresistible, shake the mountains—stirring the fixed masses of our nature to awaken and move.
प्र । य॒न्तु॒ । वाजाः॑ । तवि॑षीभिः । अ॒ग्नयः॑ । शु॒भे । सम्ऽमि॑श्लाः । पृष॑तीः । अ॒यु॒क्ष॒त॒ । बृ॒ह॒त्ऽउक्षः॑ । म॒रुतः॑ । वि॒श्वऽवे॑दसः । प्र । वे॒प॒य॒न्ति॒ । पर्व॑तान् । अदा॑भ्याः ॥प्र । यन्तु । वाजाः । तविषीभिः । अग्नयः । शुभे । सम्मिश्लाः । पृषतीः । अयुक्षत । बृहत्उक्षः । मरुतः । विश्ववेदसः । प्र । वेपयन्ति । पर्वतान् । अदाभ्याः ॥pra | yantu | vājāḥ | taviṣībhiḥ | agnayaḥ | śubhe | sam-miślāḥ | pṛṣatīḥ | ayukṣata | bṛhat-ukṣaḥ | marutaḥ | viśva-vedasaḥ | pra | vepayanti | parvatān | adābhyāḥ