Sukta 3.26
अश्वो न क्रन्दञ्जनिभिः समिध्यते वैश्वानरः कुशिकेभिर्युगेयुगे । स नो अग्निः सुवीर्यं स्वश्व्यं दधातु रत्नममृतेषु जागृविः ॥
अश्वो॒ न क्रन्द॒ञ्जनि॑भि॒: समि॑ध्यते वैश्वान॒रः कु॑शि॒केभि॑र्यु॒गेयु॑गे । स नो॑ अ॒ग्निः सु॒वीर्यं॒ स्वश्व्यं॒ दधा॑तु॒ रत्न॑म॒मृते॑षु॒ जागृ॑विः ॥
aśvó na krándan jánibhiḥ sám idhyate vaiśvānaráḥ kuśikébhir yugé-yuge | sá no agníḥ su-vī́ryaṁ sv-aśvyáṁ dádhātu rátnam amṛ́teṣu jā́gṛviḥ ||
Like a neighing horse, Vaiśvānara is kindled by the births, age after age, by the Kuśikas. May that Agni, wakeful among the immortals, place in us the treasure—noble heroic power and a right mastery of the life-forces that carry us forward.
अश्वः॑ । न । क्रन्द॑न् । जनि॑ऽभिः । सम् । इ॒ध्य॒ते॒ । वै॒श्वा॒न॒रः । कु॒शि॒केभिः॑ । यु॒गेऽयु॑गे । सः । नः॒ । अ॒ग्निः । सु॒ऽवीर्य॑म् । सु॒ऽअश्व्यम् । दधा॑तु । रत्न॑म् । अ॒मृते॑षु॑ । जागृ॑विः ॥अश्वः । न । क्रन्दन् । जनिभिः । सम् । इध्यते । वैश्वानरः । कुशिकेभिः । युगेयुगे । सः । नः । अग्निः । सुवीर्यम् । सुअश्व्यम् । दधातु । रत्नम् । अमृतेषु । जागृविः ॥aśvaḥ | na | krandan | jani-bhiḥ | sam | idhyate | vaiśvānaraḥ | kuśikebhiḥ | yuge--yuge | saḥ | naḥ | agniḥ | su-vīryam | su-aśvyam | dadhātu | ratnam | amṛteṣu | jāgṛviḥ