Sukta 3.26
तं शुभ्रमग्निमवसे हवामहे वैश्वानरं मातरिश्वानमुक्थ्यम् । बृहस्पतिं मनुषो देवतातये विप्रं श्रोतारमतिथिं रघुष्यदम् ॥
तं शु॒भ्रम॒ग्निमव॑से हवामहे वैश्वान॒रं मा॑त॒रिश्वा॑नमु॒क्थ्य॑म् । बृह॒स्पतिं॒ मनु॑षो दे॒वता॑तये॒ विप्रं॒ श्रोता॑र॒मति॑थिं रघु॒ष्यद॑म् ॥
táṁ śubhám agním aváse havāmahe vaiśvānaráṁ mātáriśvānam ukthyám | bṛ́haspátiṁ mánuṣo deva-tā́taye vípraṁ śrótāram átithiṁ raghu-syádam ||
For help we call that bright Agni—Vaiśvānara, Mātariśvan, worthy of the hymn—Bṛhaspati for the forming of the godhead in man: the inspired seer, the listener, the swift-moving guest within us.
तम् । शु॒भ्रम् । अ॒ग्निम् । अव॑से । ह॒वा॒म॒हे॒ । वै॒श्वा॒न॒रम् । मा॒त॒रिश्वा॑नम् । उ॒क्थ्य॑म् । बृह॒स्पति॑म् । मनु॑षः । दे॒वऽता॑तये । विप्र॑म् । श्रोता॑रम् । अति॑थिम् । र॒घु॒ऽस्यद॑म् ॥तम् । शुभ्रम् । अग्निम् । अवसे । हवामहे । वैश्वानरम् । मातरिश्वानम् । उक्थ्यम् । बृहस्पतिम् । मनुषः । देवतातये । विप्रम् । श्रोतारम् । अतिथिम् । रघुस्यदम् ॥tam | śubhram | agnim | avase | havāmahe | vaiśvānaram | mātariśvānam | ukthyam | bṛhaspatim | manuṣaḥ | deva-tātaye | vipram | śrotāram | atithim | raghu-syadam